॥ अथ पाणिनीयशिक्षा ॥
अथ शिक्षां प्रवक्ष्यामि
पाणिनीयं मतं यथा ।
शास्त्रानुपूर्वं
तद्विद्याद्यथोक्तं लोकवेदयोः ॥
प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः
।
पुनर्व्यक्तीकरिष्यामि वाच
उच्चारणे विधिम् ॥
त्रिषष्टिश्चतुःषष्टिर्वा
वर्णाः शम्भुमते मताः ।
प्राकृते संस्कृते चापि
स्वयं प्रोक्ताः स्वयंभुवा ॥
स्वरा विंशतिरेकश्च
स्पर्शानां पञ्चविंशतिः ।
यादयश्च स्मृता ह्यष्टौ
चत्वारश्च यमाः स्मृताः ॥
अनुस्वारो विसर्गश्च ≍क≍पौ
चापि पराश्रितौ ।
दुःस्पृष्टश्चेति विज्ञेयो
ऌकारः प्लुत एव च ॥
आत्मा बुद्ध्या
समेत्यार्थान् मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स
प्रेरयति मारुतम् ॥
मारुतस्तूरसि चरन्मन्द्रं
जनयति स्वरम् ।
प्रातः सवनयोगं तं छन्दो
गायत्रमाश्रितम् ॥
कण्ठे माध्यन्दिनयुगं
मध्यमं त्रैष्टुभानुगम् ।
तारं तार्तीयसवनं
शीर्षण्यं जागतानुगम् ॥
सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य
मारुतः ।
वर्णाञ्जनयते तेषां विभागः
पञ्चधा स्मृतः ॥
स्वरतः कालतः
स्थानात्प्रयत्नानुप्रदानतः ।
इति वर्णविदः
प्राहुर्निपुणं तन्निबोधत ॥
उदात्तश्चानुदात्तश्च
स्वरितश्च स्वरास्त्रयः ।
ह्रस्वो दीर्घः प्लुत इति
कालतो नियमा अचि ॥
उदात्ते
निषादगान्धारावनुदात्त ऋषभधैवतौ ।
स्वरितप्रभवा ह्येते
षड्जमध्यमपञ्चमाः ॥
अष्टौ स्थानानि
वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च
नासिकोष्ठौ च तालु च ॥
ओभावश्च विवृत्तिश्च शषसा
रेफ एव च ।
जिह्वामूलमुपध्मा च
गतिरष्टविधोष्मणः ॥
यद्योभावप्रसन्धानमुकारादि
परं पदम् ।
स्वरान्तं तादृशं
विद्याद्यदन्यद्व्यक्तमूष्मणः ॥
हकारं
पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् ।
उरस्यं तं
विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥
कण्ठ्यावहाविचुयशास्तालव्या
ओष्ठजावुपू ।
स्युर्मूर्धन्या ऋटुरषा
दन्त्या ऌतुलसाः स्मृताः ॥
जिह्वामूले तु कुः
प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः ।
एऐ तु कण्ठतालव्या ओऔ
कण्ठोष्ठजौ स्मृतौ ॥
अर्धमात्रा तु कण्ठ्यस्य
एकारैकारयोर्भवेत् ।
ओकारौकारयोर्मात्रा
तयोर्विवृतसंवृतम् ॥
संवृतं मात्रिकं ज्ञेयं
विवृतं तु द्विमात्रिकम् ।
घोषा वा संवृताः सर्वे
अघोषा विवृताः स्मृताः ॥
स्वराणामूष्मणां चैव
विवृतं करणं स्मृतम् ।
तेभ्योऽपि विवृतावेङौ
ताभ्यामैचौ तथैव च ॥
अनुस्वारयमानां च नासिका
स्थानमुच्यते ।
अयोगवाहा विज्ञेया
आश्रयस्थानभागिनः ॥
अलाबुवीणानिर्घोषो
दन्त्यमूल्यस्वरानुगः ।
अनुस्वारस्तु कर्तव्यो
नित्यं ह्रोः शषसेषु च ॥
अनुस्वारे विवृत्त्यां तु
विरामे चाक्षरद्वये ।
द्विरोष्ठ्यौ तु
विगृह्णीयाद्यत्रोकारवकारयोः ॥
व्याघ्री यथा
हरेत्पुत्रान्दंष्ट्राभ्यां न च पीडयेत् ।
भीता पतनभेदाभ्यां
तद्वद्वर्णान्प्रयोजयेत् ॥
यथा सौराष्ट्रिका नारी
तक्रँ इत्यभिभाषते ।
एवं रङ्गाः प्रयोक्तव्याः
खे अराँ इव खेदया ॥
रङ्गवर्णान्
प्रयुञ्जीरन्नो ग्रसेत्पूर्वमक्षरम् ।
दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत्
॥
हृदये
चैकमात्रस्त्वर्द्धमात्रस्तु मूर्द्धनि ।
नासिकायां तथार्द्धं च
रङ्गस्यैवं द्विमात्रता ॥
हृदयादुत्करे
तिष्ठन्कांस्येन समनुस्वरन् ।
मार्दवं च द्विमात्रं च
जघन्वाँ इति निदर्शनम् ॥
मध्ये तु कम्पयेत्कम्पमुभौ
पार्श्वौ समौ भवेत् ।
सरङ्गं कम्पयेत्कम्पं
रथीवेति निदर्शनम् ॥
एवं वर्णाः प्रयोक्तव्या
नाव्यक्ता न च पीडिताः ।
सम्यग्वर्णप्रयोगेण
ब्रह्मलोके महीयते ॥
गीती शीघ्री शिरःकम्पी तथा
लिखितपाठकः ।
अनर्थज्ञोऽल्पकण्ठश्च
षडेते पाठकाधमाः ॥
माधुर्यमक्षरव्यक्तिः
पदच्छेदस्तु सुस्वरः ।
धैर्यं लयसमर्थं च षडेते
पाठकाः गुणाः ॥
शङ्कितं
भीतिमुद्घृष्टमव्यक्तमनुनासिकम् ।
काकस्वरं शिरसिगं तथा
स्थानविवजिर्तम् ॥
उपांशुदष्टं त्वरितं
निरस्तं विलम्बितं गद्गदितं प्रगीतम् ।
निष्पीडितं ग्रस्तपदाक्षरं
च वदेन्न दीनं न तु सानुनास्यम् ॥
प्रातः
पठेन्नित्यमुरःस्थितेन स्वरेण शार्दूलरुतोपमेन ।
मध्यन्दिने कण्ठगतेन चैव
चक्राह्वसङ्कूजितसन्निभेन ॥
तारं तु विद्यात्सवनं
तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् ।
मयूरहंसान्यभृतस्वराणां
तुल्येन नादेन शिरःस्थितेन ॥
अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः
शलः स्मृताः ।
शेषाः स्पृष्टा हलः
प्रोक्ता निबोधानुप्रदानतः ॥
ञमोनुनासिका न ह्रौ नादिनो
हझषः स्मृताः ।
ईषन्नादा यणो जशः
श्वासिनस्तु खफादयः ॥
ईषच्छ्वासांश्चरो
विद्याद्गोर्धामैतत्प्रचक्षते ।
दाक्षीपुत्रपाणिनिना
येनेदं व्यापितं भुवि ॥
छन्दः पादौ तु वेदस्य
हस्तौ कल्पोऽथ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं
श्रोत्रमुच्यते ॥
शिक्षा घ्राणं तु वेदस्य
मुखं व्याकरणं स्मृतम् ।
तस्मात्साङ्गमधीत्यैव
ब्रह्मलोके महीयते ॥
उदात्तमाख्याति
वृषोऽङ्गुलीनां प्रदेशिनीमूलनिविष्टमूर्धा ।
उपान्तमध्ये स्वरितं
द्रुतं च कनिष्ठकायामनुदात्तमेव ॥
उदात्तं प्रदेशिनीं
विद्यात्प्रचयं मध्यतोङ्गुलिम् ।
निहतं तु कनिष्ठिक्यां
स्वरितोपकनिष्ठिकाम् ॥
अन्तोदात्तमाद्युदात्तमुदात्तमनुदात्तं
नीचस्वरितम् ।
मध्योदात्तं स्वरितं
द्व्युदात्तं त्र्युदात्तमिति नवपदशय्या ॥
अग्निः सोमः प्र वो वीर्यं
हविषां स्वर्बृहस्पतिरिन्द्राबृहस्पती अग्निरित्यन्तोदात्तं सोम इत्याद्युदात्तम्
।
प्रेत्युदात्तं व
इत्यनुदात्तं वीर्यं नीचस्वरितम् ॥
हविषां मध्योदात्तं
स्वरिति स्वरितम् ।
बृहस्पतिरिति
द्व्युदात्तमिन्द्राबृहस्पती इति त्र्युदात्तम् ॥
अनुदात्तो हृदि ज्ञेयो
मूर्ध्न्युदात्त उदाहृतः ।
स्वरितः कर्णमूलीयः
सर्वास्ये प्रचयः स्मृतः ॥
चाषस्तु वदते मात्रां
द्विमात्रं चैव वायसः ।
शिखी रौति त्रिमात्रं तु
नकुलस्त्वर्धमात्रकम् ॥
कुतीर्थादागतं दग्धमपवर्णं
च भक्षितम् ।
न तस्य पाठे मोक्षोऽस्ति
पापाहेरिव किल्बिषात् ॥
सुतीर्थादगतं व्यक्तं
स्वाम्नाय्यं सुव्यवस्थितम् ।
सुस्वरेण सुवक्त्रेण
प्रयुक्तं ब्रह्म राजते ॥
मन्त्रो हीनः स्वरतो
वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं
हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् ॥
पदच्छेदः मन्त्रः हीनः स्वरतः वर्णतः वा मिथ्या-प्रयुक्तः न तम् अर्थम् आह ।
सः वाग्-वज्रः यजमानम्
हिनस्ति यथा इन्द्र-शत्रुः स्वरतः अपराधात्।
अनक्षरं हतायुष्यं विस्वरं
व्याधिपीडितम् ।
अक्षता शस्त्ररूपेण वज्रं
पतति मस्तके ॥
हस्तहीनं तु योऽधीते
स्वरवर्णविवर्जितम् ।
ऋग्यजुःसामभिर्दग्धो
वियोनिमधिगच्छति ॥
हस्तेन वेदं योऽधीते
स्वरवर्णर्थसंयुतम् ।
ऋग्यजुःसामभिः पूतो
ब्रह्मलोके महीयते ॥
शङ्करः शाङ्करीं प्रादाद्दाक्षीपुत्राय
धीमते ।
वाङ्मयेभ्यः समाहृत्य
देवीं वाचमिति स्थितिः ॥
येनाक्षरसमाम्नायमधिगम्य
महेश्वरात् ।
कृत्स्नं व्याकरणं
प्रोक्तं तस्मै पाणिनये नमः ॥
येन धौता गिरः पुंसां
विमलैः शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं
तस्मै पाणिनये नमः ॥
अज्ञानान्धस्य लोकस्य
ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै
पाणिनये नमः ॥
त्रिनयनमभिमुखनिःसृतामिमां
य इह पठेत्प्रयतश्च सदा द्विजः ।
स भवति
धनधान्यपशुपुत्रकीर्तिमान् अतुलं च सुखं समश्नुते दिवीति दिवीति ॥
॥ इति पाणिनीयशिक्षा समाप्ता ॥
